|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.87. अध्यायः 087
Mahabharata - Vana Parva - Chapter Topics
धौम्येन युधिष्ठिरंप्रति प्रतीचीस्थतीर्थकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
धौम्य उवाच। 3-87-0x(1996)(19660)
अवन्तीषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि।
यानि तत्रपवित्राणि पुण्यान्यायतनानि च ॥ 3-87-1(19661)
प्रियङ्ग्वाम्रवणोपेता वानीरफलमालिनी।
प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत ॥ 3-87-2(19662)
त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च।
सरिद्वनानि शैलेन्द्रा देवाश्च सपितामहाः ॥ 3-87-3(19663)
नर्मदायां कुरुश्रेष्ठ सहसिद्धर्षिचारणैः।
स्नातुमायान्ति पुण्यौधैः सदा वारिषु भारत ॥ 3-87-4(19664)
निरेतः श्रूयते पुण्यो यत्र विश्रवसो मुनेः।
जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः ॥ 3-87-5(19665)
वैढूर्यशिखरो नाम पुण्यो गिरिवरः शिवः।
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः ॥ 3-87-6(19666)
तस्य शैलस्य शिखरे सरः पुण्यं महीपते।
फुल्लपद्मं महाराज देवगन्धर्वसेवितम् ॥ 3-87-7(19667)
बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते।
पुण्ये स्वर्गोपमे चैव देवर्षिगणसेविते ॥ 3-87-8(19668)
ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित्।
विश्चामित्रेण तपसा निर्मिता सर्वपावनी ॥ 3-87-9(19669)
यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः।
पपात स पुनर्लोकाँल्लेभे धर्मान्सनातनान् ॥ 3-87-10(19670)
तत्रपुण्यो ह्रदः ख्यातो मैनाकश्चैव पर्वतः।
बहुमूलफलोपेतस्त्वमितो नाम पर्वतः ॥ 3-87-11(19671)
आश्रमः कक्षसेनस्य पुण्यस्तत्रयुधिष्ठिरः।
च्यवनस्याश्रमश्चैव विख्यातस्तत्रपाण्डव।
तत्राल्पेनैव सिद्ध्यन्ति मानवास्तपसा विभो ॥ 3-87-12(19672)
जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम्।
आश्रम शाम्यतां श्रेष्ठ मृगद्विजनिषेवितः ॥ 3-87-13(19673)
ततः पुण्यतमा राजन्सततं तापसैर्युता।
केतुमाला च मेध्या च गङ्गाद्वारं च भूमिप।
ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम् ॥ 3-87-14(19674)
पितामहसरः पुण्यं पुष्करं नाम नामतः।
वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः ॥ 3-87-15(19675)
अप्यत्र संश्रयार्थाय प्रजापतिरथो जगौ।
पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनांवर ॥ 3-87-16(19676)
मनसाऽप्यभिकामस्य पुष्कराणि मनखिनः।
विप्रणश्यन्ति पापानि नाकपृष्ठे च मोदते ॥ 3-87-17(19677)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणइ सप्ताशीतितमोऽध्यायः ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-87-2 प्रत्यक्स्त्रोता- पश्चिमवाहिनी ॥ 3-87-13 शाम्यतां शमवताम् ॥ 3-87-14 गङ्गारण्यं च भूमिपेति ध. पाठः ॥ 3-87-16 संश्रयार्थाय वासार्थम् ॥ 3-87-17 अभिकामस्य गन्तुमिच्छोः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|